इच्छघ्नमाद्यहृत्सेष्टं फलं व्यस्ते विपर्ययात्
बहुराशिवधं भक्ते फलं स्वल्पवधेन च
मानघ्नकालश्चातीतकालाघ्नफलसंहृताः
बहुराशिपलात्स्वल्पराशिमासफलं बहु
क्षेपा मिश्रहताः क्षेपोयोगभक्ताः फलानि च
पूर्णोगच्छेत्समेध्यव्येसमेवर्गोर्द्धितेत्यतः
व्येकं व्येकगुणाप्तं च प्राध्नं मानं गुणोत्तरे
श्रुतिकृत्यन्तरपद कोटिर्दोः कर्णवर्गयोः
राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः
व्यास आकृतिसंक्षण्णोव्यासास्यात्परिधिर्मुने
व्यासः शरः शरोनाञ्च व्यासाच्छरगुणात्पदम्
व्यासोष्टतेभवेदेवं प्रोक्तं गणितकोविदैः
तुर्यांशेन शरध्नेनाघेनिनाधं चतुर्गणम्
ज्याङ्घ्रीषुध्नोवृत्तवर्गोबग्धिघ्नव्यासाढ्यमौर्विहृत्
स्थूलमध्यापृवन्नवेधो वृत्ताङ्काशेषभागिकः
वारिव्यासहतं दैर्ध्यंवेधाङ्गुलहतं पुनः
विस्तारायामवेधानांमङ्गुल्योन्यनाडिघ्नाः
उत्सेधव्यासदैर्ध्याणामङ्गुल्यान्यस्य नो द्विज
विस्ताराद्यं गुलान्येवं मिथोघ्नान्यपसांभवेत्
दीपशङ्कुतलच्छिद्रघ्नः शङ्कुर्भैवंभवेन्मुने
शङ्कौनृदीपाधश्छिद्रघ्नैर्दीपौच्च्यं नरान्विते
दीपशङ्क्वन्तरं चाथ च्छायाग्रविवरघ्नभा
प्रभाप्ता जायते दीपशिखौच्च्यं स्यात्त्रिराशिकात्
ग्रहमध्यादिकं वक्ष्ये गणिते नातिविस्तरान्
तद्दशांशास्तु चत्वारः कृताख्यं पादमुच्यते
मनुकृताब्दसहिता युगानामेकसप्ततिः
तावत्येव निशा तस्य विप्रेन्द्र परिकीर्तिता
खचरानयनं कार्यमथवेष्टयुगादितः
पूजार्किगुरुशुक्राणां भगणापूर्वपापिनाम्
दस्रत्र्याष्टरसांकाश्विलोचनानि कुजस्य तु