नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम्
तिथिवासरनक्षत्रयोगतिथ्यर्द्धसंज्ञकाः
चन्द्रता राबलं चैव सर्वलग्रार्तवाह्वयः
चौलङ्कर्ण्ययणं मैञ्जी क्षुरिकाबन्धनं तथा
यात्राप्रवेशनं सद्योवृष्टिः कर्मविलक्षणम्
एकं दश शतं चैव सहस्रायुतलक्षकम्
निरवर्व च महापद्मं शङ्कुर्जलधिरेव च
क्रमादुत्क्रमतो वापि योगः कार्योत्तरं तथा
शुद्धेद्धरोयद्गुणश्चभाज्यान्त्यात्तत्फलं मुने
अन्त्यात्तु विषमात्त्यक्त्वा कृतिं मूलंन्यसेत्पृथक्
तत्कृतिं च त्यजेद्विप्र मूलेन विभजेत्पुनः
समत्र्यङ्कहतिः प्रोक्तो घनस्तत्रविधिः पदे
विशोध्यं विषमादन्त्याद्धनं तन्मूलमुच्यते
तत्कृतित्वेन निहतान्निघ्नीं चापि विशोधयेत्
अन्योन्यहारनिहतौ हरांशौ तु समुच्छिदा
भागप्रभागे विज्ञेयं मुने शास्रार्थचिन्तकैः
भागास्तलस्थहारेण हरं स्वांशाधिकेन तान्
कार्यस्तुल्यहरां शानां योगश्चाप्यन्ततो मुने
अंशाहतिश्छेदघातहृद्भिन्नगुणने फलम्
शेषः कार्यो भागहारे कर्तव्यो गुणनाविधिः
पदसिद्ध्यै पदे कुर्यादथोरवं सर्वतश्च रवम्
ऋणं स्वं स्वमृणं कुर्यादृश्ये राशिप्रसिद्धये
अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत्
इष्टघ्नदृष्टेनैतेन भक्तराशिरनीशितः
राश्यन्तरहृतं वर्गोत्तरं योसुतश्च तौ
एको ऽस्य वर्गो दलितः सैको राशिः परो मतः
वर्गयोगान्तरे व्येके राश्योर्वर्गोस्त एतयोः
एषीस्यानामुभे व्यक्ते गणिते व्यक्तमेव च
दृष्टस्य च गुणार्द्धो न युतं वर्गीकृतं गुणः
भक्तं तथा मूलगुणं ताभ्यां साध्योथ व्यक्तवत्