सर्वे सर्वगणीयाश्च तथानेकार्थवाचिनः
संक्षेपो ऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च
वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः
भञ्ज्भुज्भ्रस्ज्मत्जियज्युज्रुज्रञ्जविजिर्स्वञ्जिसञ्ज्सृजः
शद्सदी स्विद्यतिःस्कन्दिर्हदी क्रुध्क्षुधिबुध्यती
मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती
क्रुशिर्दंशिदिशी दृश्मृश्रिरुश्लिश्विश्स्पृशः कृषिः
वसतिर्दहदिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा
चाद्या निपाता गवयः प्राद्या दिग्देशकालजाः
गणपाठः सूत्रपाठो धातुपाठस्तथैव च
शब्दाः सिद्धा वैदिकास्तु लौकिकाश्चापि नारद
लघुमार्गेण शब्दानां साधूनां संनिरूपणम्
प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम्
कात्स्न्येर्न वक्तुमानन्त्यात्को ऽपिशक्तो न नारद
यस्य विज्ञान मात्रेण धर्मसिद्धिर्भवेन्नृणाम्
गणितं जातकं विप्र संहितास्कन्धसंज्ञिताः
अनुयोगश्चन्द्रसूर्यग्रहणं तचोदस्याकम्
जातके राशिभेदाश्च ग्रहयोनिश्च योनिजम्
कर्माजीवं चाष्टवर्गो राजयोगाश्च नाभसाः
ग्रहभावफलं चैवाश्रययोगप्रकीर्णके
नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम्
तिथिवासरनक्षत्रयोगतिथ्यर्द्धसंज्ञकाः
चन्द्रता राबलं चैव सर्वलग्रार्तवाह्वयः
चौलङ्कर्ण्ययणं मैञ्जी क्षुरिकाबन्धनं तथा
यात्राप्रवेशनं सद्योवृष्टिः कर्मविलक्षणम्
एकं दश शतं चैव सहस्रायुतलक्षकम्
निरवर्व च महापद्मं शङ्कुर्जलधिरेव च
क्रमादुत्क्रमतो वापि योगः कार्योत्तरं तथा
शुद्धेद्धरोयद्गुणश्चभाज्यान्त्यात्तत्फलं मुने
अन्त्यात्तु विषमात्त्यक्त्वा कृतिं मूलंन्यसेत्पृथक्