दादयो धातवो वेदाः परस्मैपदिनो मताः
माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु
घृमुखा द्वादश तथा परस्मैपतिनो मताः
परस्मैपदिनः प्रोक्ता दिवाद्याः पञ्चविंशतिः
ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः
स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः
मृषाद्याः स्वरितेतस्तु धातवः पञ्च कीर्तिताः
राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके
परस्मैपदिनो ऽष्टात्र रधाद्याः परिकीर्तिताः
चत्वारिशच्छतं चापि दिवादौ धातवो मताः
सप्ताख्यातो दुनोतिस्तु परस्मैपदिनो मुने
परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश
स्वरितेतः षङाख्यातास्तुदाद्या मुनिसत्तम
व्रश्चादय उदात्तेतः प्रोक्ताः पञ्चाधिकं शतम्
णूमुखाश्चैव चत्वारः परस्मैपदिनो मताः
पृङ् मृङ् चात्मनेभाषौ षट् परस्मैपदे रिपेः
प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने
कृतीप्रभृतय श्चापि परस्मैपदिनस्रयः
स्वरितेतो रुधोनन्दा परस्मैभाषितः कृती
उदात्तेतः शिषपिषरुधाद्याः पञ्चविंशतिः
मनुवन्वात्मनेभाषौ स्वरितेत्त्कृञुदाहृतः
क्याद्याः सप्तोभयेभाषाः सौत्राः स्तंभ्वादिकास्तथा
द्वाविंशतिरुदात्तेतः कुधाद्या धातवो मताः
परस्मैपदिनश्चाथ स्वरितेद्ग्रह एव च
चुराद्या धातवो ञ्यन्ता षट्र्त्रिंशदधिकः शतम्
चर्चाद्या आधृषीयास्तु प्यन्ता वा परिकीर्तिताः
पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे
धात्वर्थे प्रातिपदिकाद्वहुलं चेष्टवन्मतम्
धात्वर्थे कर्तृकरणाञ्चित्राद्याश्चापि धातवः
स्तोमाद्याः षोडश तथा अन्दतस्यं निदर्शनम्