क्षुधादयो ऽनुदात्तेतो द्विषपञ्चाशदुदाहृताः
द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः
ततो ज्वलदुदात्तेतो द्विपञ्चाशन्मितास्तथा
अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात्
सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत्
स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः
अष्टादशस्मिङाद्यास्तु आमनेपदिनो मताः
हृपरस्मैपदी चात्मनेभाषास्तु गुपात्रयः
परस्मैपदिनः पञ्च दश स्कंम्भ्वादयस्तथा
स्वरितेतः पचाद्यङ्काः परस्मैपदिनो मताः
भ्वाद्या एते षडधिकं सहस्रं धातवो मताः
स्वरितेतो द्विषाद्यास्तु चत्वारो धातवो मताः
इरादयो ऽनुदात्तेतो धातवस्तु त्रयोदश
परस्मैपदिनः प्रोक्ता षुमुखाः सप्त धातवः
घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा
ष्टुञेकस्तु समा ख्यातः स्मृते नारद शाब्दिकैः
इङ्ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः
ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा
दीधीङ्वेङ्स्मृतौ धातू आत्मनेपदिनौ मुने
चर्करीतं च ह्नुङ् प्रोक्तो ऽनुदात्तेन्मुनिसत्तम
दादयो धातवो वेदाः परस्मैपदिनो मताः
माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु
घृमुखा द्वादश तथा परस्मैपतिनो मताः
परस्मैपदिनः प्रोक्ता दिवाद्याः पञ्चविंशतिः
ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः
स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः
मृषाद्याः स्वरितेतस्तु धातवः पञ्च कीर्तिताः
राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके
परस्मैपदिनो ऽष्टात्र रधाद्याः परिकीर्तिताः
चत्वारिशच्छतं चापि दिवादौ धातवो मताः