बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू
परं व्यवहिताश्चापि गतिसंज्ञास्तथा हि आ
निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा
व्यत्ययमिच्छति शास्रकृदेषां सो ऽपि च सिद्ध्यति बाहुलकेन
रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः
देवासो ऽथो सर्वदेवतातित्वावत इत्यपि
अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा
हिरण्ययेन नरं च परमे व्योमनित्यपि
यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः
पश्येदधद्ब्रभूथापि प्रमिणान्तित्यवीवृधत्
दधर्त्याद्या स्ववद्भिश्च ससूवेति च धिष्व च
रथीतरी नसताद्या अम्नर्भुवरथो इति
दाश्वांश्व स्वतवान्यापौत्रिभिष्ट्वं च नृभिष्टुतः
चतुर्विधाद्बाहुलकात्प्रवृत्तेरप्रवृत्तितः
भूवाद्या धातवो ज्ञेयाः परस्मैपदिनःस्मृताः
अतादयो ऽष्टत्रिंशञ्च परस्मैपदिनो मुने
उदात्तेतरतु पञ्चाशत्फक्काद्याः परिकीर्तिताः
गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः
अणादयोप्युदात्तेतः सप्तविंशतिधातवः
द्विसप्ततिमिता मव्यमुखाश्चोदात्तबन्धना
क्षुधादयो ऽनुदात्तेतो द्विषपञ्चाशदुदाहृताः
द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः
ततो ज्वलदुदात्तेतो द्विपञ्चाशन्मितास्तथा
अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात्
सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत्
स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः
अष्टादशस्मिङाद्यास्तु आमनेपदिनो मताः
हृपरस्मैपदी चात्मनेभाषास्तु गुपात्रयः
परस्मैपदिनः पञ्च दश स्कंम्भ्वादयस्तथा
स्वरितेतः पचाद्यङ्काः परस्मैपदिनो मताः