परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः
सौकर्यातिशयं चैव यदाद्योतयितुं मुने
लभन्ते कर्तृते पश्य पच्यते ह्योदनः स्वयम्
धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः
फलव्यापरयोरेकनिष्टतायामकर्मकः
गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम्
प्रयोज्य कर्मण्यन्येषां ण्यन्तानां लादयो मताः
फले प्रधानं व्यापारस्तिर्ङ्थस्तु विशेषणम्
भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः
गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम्
रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च
पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः
अब्राह्मणो न ञि प्रोक्तः कुंभकारादिकः कृता
पञ्चगू रूपवद्भार्यो मध्याह्नः ससुतादिकः
भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत्
रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते
तत्पञ्चविधमाख्यातं वैदिकं धातुरूपकम्
विकारः क्वापि वर्णानां वर्णनाशः क्वचिन्मतः
धातोर्योगातिशयी च संयोगः परिकीर्तितः
गूढोत्मा वर्णविकृतेर्वर्णनांशात्पृषोदरः
बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू
परं व्यवहिताश्चापि गतिसंज्ञास्तथा हि आ
निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा
व्यत्ययमिच्छति शास्रकृदेषां सो ऽपि च सिद्ध्यति बाहुलकेन
रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः
देवासो ऽथो सर्वदेवतातित्वावत इत्यपि
अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा
हिरण्ययेन नरं च परमे व्योमनित्यपि
यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः
पश्येदधद्ब्रभूथापि प्रमिणान्तित्यवीवृधत्