गार्ग्यो नाडायनात्रेयौ गाङ्गेयः पैतृष्वस्रीयः
क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा
स्वार्थे चौरस्तु तुल्यार्थे चन्द्रवन्मुखमीक्षते
गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान्
स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च
ईषदपरिसमाप्तौ कल्पव्देशीय एव च
पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने
प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा
कृष्णतरः शुक्लतमः किम आख्यानतो ऽव्ययान्
परिमाणे जानुदघ्नं जानुद्वयसमित्यपि
कतमः कतरः संख्येयविशेषावधारणे
एतादशः कतिपयः कतिथः कति नारद
द्वेधा द्वैधा द्विधा संख्या प्रकारे ऽथ मुनीश्वर
द्वितयं त्रितपं चापि संख्यायां हि द्वयं त्रयम्
त्रैणः पौष्णस्तुण्डिभश्च वृन्दारककृषीवलौ
अवटीटोवनाटे निबिडं चेक्षुशाकिनम्
विद्याथुञ्चुर्बहुतिथं पर्वतः शृङ्गिणस्तथा
चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा
ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा
आसंदी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि
शन्तः शन्तिः शंयशन्तौ शंयोहंयुः शुभंयुवत्
भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि
अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत्
दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै
सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च
अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै
तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि
अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु
क्रियासमभिहारे तु पण्डितो बोभूयते मुने
अनुदात्तञितो धातोः क्रियाविनिमये तथा