लडीरितो वर्तमाने भूते ऽनद्यतने तथा
विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने
स्यादनद्यतने ऌटू च भविष्यति तु धातुतः
सिद्धोदाहरणं विद्धि संहितादिपुरः सरम्
होतॄकारस्तथा सेयं लाङ्गलीषा मनीषया
शीतार्तश्च मुनिश्रेष्ठ सेंद्रः सौकार इत्यपि
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः
शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः
षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा
प्रश्नस्त्वथ हरिःषष्ठः कृष्णष्टीकत इत्यपि
चक्रिंश्छिन्धि भवाञ्छौरिर्भवाञ्शौरिरित्यपि
तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरःशिवः
रोमो दृष्टो ऽबला अत्र सुप्ता इष्टा इमा यतः
एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता
रामे रञ्जत् मे मनः सुविशदं हे राम तुभ्यं नमः
सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः
अनङ्घान्गोधुग्लिट् च द्वे त्रयश्चत्वार एव च
अष्टौ अयं मुने सम्राट् सविभ्रद्वपुङ्मनः
उशनासाविंमे पुंसि स्यारक्तलविरामकाः
गौर्नौंरुपान् दूद्यौर्गोः क्षुत् ककुप्संवित्तु वा क्वचित्
ग्रामण्यंबुरवलप्वेवं कर्तृ चातिरि वातिनु
एतद्ब्रह्माहश्च दण्डी असृक्किञ्चित्त्यदादि च
तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत्
गुणद्रव्य क्रियायोगांस्रिलिङ्गांश्च कति ब्रुवे
पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना
धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू
रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यान्तरेतराणि च
पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ
युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः
स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा