सिद्धरूपप्रबन्धेन मुखं वेदस्य सांप्रतम्
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका
अर्थावत्प्रातिपदिकं धातुप्रत्ययवार्जितम्
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते
येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः
यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम्
यतो ऽपैति समादत्ते अपदत्ते च यं यतः
ङ्योःसुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत्
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम्
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः
अन्तरेषु सहार्थे च हीने ह्युपश्च कथ्यते
अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे
चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि
निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके
हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि
भूवादिषु तिङतेषु लकारा दश वै स्मृताः
मिव्वस्मसः परस्मै तु पादानां चा मपनेदम्
ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषो ऽस्मदि
लडीरितो वर्तमाने भूते ऽनद्यतने तथा
विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने
स्यादनद्यतने ऌटू च भविष्यति तु धातुतः
सिद्धोदाहरणं विद्धि संहितादिपुरः सरम्
होतॄकारस्तथा सेयं लाङ्गलीषा मनीषया
शीतार्तश्च मुनिश्रेष्ठ सेंद्रः सौकार इत्यपि
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः
शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः
षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा
प्रश्नस्त्वथ हरिःषष्ठः कृष्णष्टीकत इत्यपि