भृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्
पिण्डांश्चगो ऽजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा
हविष्यान्नेन वै मासं पायसेन तु वत्सरम्
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम्
खड्गामिषं महाकल्पं मधु मुन्यन्नमेव च
यो ददाति गयास्थश्च सर्वमानन्त्यमश्नुते
कल्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम्
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा
प्रवृत्तं चक्रतां चैव वाणिज्यप्रभृतीनि च
धनं विद्यां भिषक् सिद्धिं कुप्यङ्गा अप्यजाविकम्
कृत्तिकादि भरण्यन्तं सकामानाप्नुयादिमान्
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च
इत्येवं कथितं किञ्चित्कल्पाध्याये विशेषतः
य इमं चिन्तयेद्विद्वान्कल्पाध्यायं मुनीश्वर
यः शृणोति नरो भक्त्या दैवे पित्र्ये च कर्मणि
धनं विद्यां यशः पुत्रान्परत्र च गतिं पराम्
कथयिष्ये समासेन शृणुष्व सुसमाहितः
सिद्धरूपप्रबन्धेन मुखं वेदस्य सांप्रतम्
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका
अर्थावत्प्रातिपदिकं धातुप्रत्ययवार्जितम्
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते
येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः
यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम्
यतो ऽपैति समादत्ते अपदत्ते च यं यतः
ङ्योःसुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत्
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम्
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः