अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम्
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः
दत्त्वान्नं पृथिवीपात्रमिति पात्रा भिमन्त्रणम्
सव्याहृतिकां गायत्रीं मधुवाता इति त्यृचम्
अग्नमिष्टं हविप्यं च दद्यादक्रोधनो ऽत्वरः
अन्नमादाय तृप्ताःस्थ शेषं चैवानुमान्य च
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः
मातामहानामप्येवं दद्यादाचमनं ततः
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत्
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिंचेत्ततो जलम्
दातारोनो ऽभिवर्द्धन्तां वेदाः संततिरेव च
इत्युक्तो क्ताः प्रिया वाचः प्रणिपत्य विसर्जयेत्
यस्मिंस्ते संश्रवाः पूर्वमर्ध्यपात्रे निवेशिताः
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम्
एवं प्रदक्षिणावृत्त्या वृद्धौ नान्दीमुखान्पितॄन्
एकोद्दिष्टं देवहीनमेवार्ध्यैकपवित्रकम्
उपतिषअटतामक्षय्यस्थाने विप्रविसर्जने
गन्धोदकं तिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत्
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत्
भृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्
पिण्डांश्चगो ऽजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा
हविष्यान्नेन वै मासं पायसेन तु वत्सरम्
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम्
खड्गामिषं महाकल्पं मधु मुन्यन्नमेव च
यो ददाति गयास्थश्च सर्वमानन्त्यमश्नुते
कल्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम्
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा