निमन्त्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः
अपराह्ने समघभ्यर्च्य स्वागतेनागतांस्तु तान्
विप्रान्दैवे यथाशक्ति पित्र्ये ऽयुग्मांस्तथैव च
द्वौ द्वैवे प्राक् त्रयः पित्रघ्ये उदगेकैकमेव च
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि
यवैरन्वावकीर्याथ भाजने सपवित्रके
यादिव्या इति मन्त्रेण हस्ते पाद्यं विनिःक्षिपेत्
अपसव्यं ततः तृत्वा पितॄणां सप्रदक्षिणम्
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः
दत्त्वार्ध्यं सयवांस्तेषां पात्रे कृत्वा विधानतः
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम्
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः
दत्त्वान्नं पृथिवीपात्रमिति पात्रा भिमन्त्रणम्
सव्याहृतिकां गायत्रीं मधुवाता इति त्यृचम्
अग्नमिष्टं हविप्यं च दद्यादक्रोधनो ऽत्वरः
अन्नमादाय तृप्ताःस्थ शेषं चैवानुमान्य च
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः
मातामहानामप्येवं दद्यादाचमनं ततः
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत्
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिंचेत्ततो जलम्
दातारोनो ऽभिवर्द्धन्तां वेदाः संततिरेव च
इत्युक्तो क्ताः प्रिया वाचः प्रणिपत्य विसर्जयेत्
यस्मिंस्ते संश्रवाः पूर्वमर्ध्यपात्रे निवेशिताः
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम्
एवं प्रदक्षिणावृत्त्या वृद्धौ नान्दीमुखान्पितॄन्
एकोद्दिष्टं देवहीनमेवार्ध्यैकपवित्रकम्
उपतिषअटतामक्षय्यस्थाने विप्रविसर्जने
गन्धोदकं तिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत्
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत्