वर्तते यत्र मार्ताण्डः कथं तत्रतमो भवेत्
चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः
प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम्
परं पदं प्रयान्त्येव महद्भिरवलोकिताः
यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम्
चकार तस्य शुश्रूषां सपत्न्या सह नारद्
चक्राते भक्तिभावेन शुश्रूषआं प्रतिवासररम्
तस्याः पापमतिर्जाता सपत्न्याः संपदं प्रति
न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया
चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा
सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा
न तदातिसुखं किं वा नराणां पुण्यकर्मणाम्
तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम्
कलामात्रो ऽपि शीताशुः शंभुना स्वीकृतो यथा
इहामुत्र च विग्नेन्द्र सन्तः पूज्यतमास्ततः
गर्भं प्रात्पो गरो जीर्णो मासत्रयमहो ऽद्भुतम्
जातकर्म चचकारासौ तन्नाम सगरेति च
चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः
समर्थं सगरं दृष्ट्वा किञ्चिदुद्भिन्नशैशवम्
सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने
सभित्कुशांवुपुष्पादि प्रत्यहं समुपानयत्
उवाच प्राञ्जलिर्भूत्वा सगरो विनयान्वितः
तत्सर्वं मेसमाचक्ष्व श्रोतुं कौतूहलं मम
पित्रा विहीना ये लोके जीवन्तो ऽपि मृतोपमाः
यस्य माता पिता नास्ति सुखं तस्य न विद्यते
अपुत्रस्य वृथां जन्म ऋणग्रस्तस्य चैव हि
पतिहीना यथा नारी पितृहीनस्तथा शिशुः
पशुहीनो यथा वैश्यस्तया पित्रा विनार्भक्तः
तपो यथा दयाहीनं सथा पित्रा विवार्भकः
बेदहीनो यथा वाजी तथा पित्रा विनार्भक्तः