शक्तितो ऽपि यथा लाभं सत्कृत्य विधिपूर्वकम्
कृष्णागौरायसं छाग एता वै दक्षिणाः स्मृताः
ब्रह्मन्नेषां वरो दत्तः पूजिताः पूजयिष्यथः
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः
महागणपतेश्चैव कुर्वन्सिद्धिमवान्पुयात्
कर्मणां सफलत्वं च श्रियं वाप्नोत्यनुत्तमाम्
कुप्यन्ति मातरस्तस्य प्रत्यूहं कुर्वते तथा
गौर्याद्या मातरः पूज्या माङ्गल्येषु शुभार्थिभिः
देवसेना स्वधा स्वाहा मातृका वैधृतिर्धृतिः
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोहश
अक्षतांश्चैव पुष्पाणि धूपं दीपं फलानि च
नीराजनं दक्षिणां च क्रमाद्दद्याञ्च तुष्टये
अमावस्याष्टका वृद्धिः कृष्णपक्षायनद्वयम्
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः
अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा
स्वस्रीय ऋत्विग्जामाता याज्यश्वशुरमातुलाः
कर्मनिष्टास्तपोनिष्टाः पञ्चाग्निब्रह्मचारिणः
रोगी न्यूनातिरिक्ताङ्गः काणः पौनर्भवस्तथा
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः
मातृपितृगुरुत्यागी कुण्डाशी वृषलात्मजः
निमन्त्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः
अपराह्ने समघभ्यर्च्य स्वागतेनागतांस्तु तान्
विप्रान्दैवे यथाशक्ति पित्र्ये ऽयुग्मांस्तथैव च
द्वौ द्वैवे प्राक् त्रयः पित्रघ्ये उदगेकैकमेव च
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि
यवैरन्वावकीर्याथ भाजने सपवित्रके
यादिव्या इति मन्त्रेण हस्ते पाद्यं विनिःक्षिपेत्
अपसव्यं ततः तृत्वा पितॄणां सप्रदक्षिणम्
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः
दत्त्वार्ध्यं सयवांस्तेषां पात्रे कृत्वा विधानतः