जुहुयान्मूर्द्धनि कुशान्सव्यन परिगृह्य च
कूष्माण्डो राजपुत्र श्चेत्यन्ते स्वाहासमान्वितैः
दद्याञ्चतुष्पथे सूर्य्ये कुशानास्तीर्य्य सर्वतः
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेवतु
मूलकं पूरिकापूपांस्तथैवोटस्रजो ऽपि च
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः
दुर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम्
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे
धूपैदर्पिश्चै नैवेद्यैर्गन्धमाल्यानुलेपनैः
ब्राह्मणान्भोजयेत्पश्चाद्वस्त्रयुगमं गुरोरपि
श्रीकामः शान्तिकामो वा पुष्टिवृद्ध्यायुर्वीर्य्यवान्
राहुकेतू नवाप्येते नवाप्येते स्थापनीया ग्रहाः क्रमात्
हेम्नो रजतादयसः सीसात्कार्या शुभाप्तये
यथावर्णं प्रदेयानि वासांसि कुसुमानि च
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम्
उद्बुधअयस्वाति यदर्यस्तथैवान्नात्परिस्रुतः
शन्नोदेवीस्तथा काण्डात्केतुं कृण्वन्नकेतवः
उदुंबरः शमी दूर्वा कुशाश्च समिधः क्रमात्
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा पुनः
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च
शक्तितो ऽपि यथा लाभं सत्कृत्य विधिपूर्वकम्
कृष्णागौरायसं छाग एता वै दक्षिणाः स्मृताः
ब्रह्मन्नेषां वरो दत्तः पूजिताः पूजयिष्यथः
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः
महागणपतेश्चैव कुर्वन्सिद्धिमवान्पुयात्
कर्मणां सफलत्वं च श्रियं वाप्नोत्यनुत्तमाम्
कुप्यन्ति मातरस्तस्य प्रत्यूहं कुर्वते तथा
गौर्याद्या मातरः पूज्या माङ्गल्येषु शुभार्थिभिः
देवसेना स्वधा स्वाहा मातृका वैधृतिर्धृतिः
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोहश