स्रुक्स्त्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे
मेषारूढं चतुःशृङ्गं बालादित्यसमप्रभम्
ज्ञात्वैवमग्निदेहं तु होमकर्मसमाचरेत्
जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्महा भवेत्
सर्वकामसमृद्ध्यर्थं तिलाधिक्यं हविर्मतम्
अभिचारे सूकरी स्यान्मृगी हंसी शुभात्मके
मध्यमानामिकाङ्गुष्टैर्मृगी सुद्रा प्रकीर्तिता
दधिमध्वाज्यसंयुक्त ऋत्विग्भिर्जुहुयात्तिलैः
कुशास्त्वनामिकासक्ताः कार्याः स्युः पुण्यकर्मणि
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा
स्वमेव गाहतेत्यर्थं जलं मुण्डांश्च पश्यति
अन्त्यजैर्गर्द्दभैरुष्टैः सहैकत्रावतिष्टते
व्रजन्नपि तथात्मानं मन्यते ऽनुगतं परैः विमना विफलारंभः संसीदत्यनिमित्ततः
आचार्यत्वं श्रोत्रियश्च न शिष्यो ऽध्ययनं तथा
गौरसर्ष पकल्केन स्वस्ति वाच्या द्विजैः शुभाः
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाशु निक्षिपेत्
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं ततः
तेन त्वामभिषिञ्चामि पावमान्याः पुंनतु ते
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः
ललाटे कर्णयोरक्ष्णोरापस्तुदन्तु सर्वदा
जुहुयान्मूर्द्धनि कुशान्सव्यन परिगृह्य च
कूष्माण्डो राजपुत्र श्चेत्यन्ते स्वाहासमान्वितैः
दद्याञ्चतुष्पथे सूर्य्ये कुशानास्तीर्य्य सर्वतः
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेवतु
मूलकं पूरिकापूपांस्तथैवोटस्रजो ऽपि च
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः
दुर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम्
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे
धूपैदर्पिश्चै नैवेद्यैर्गन्धमाल्यानुलेपनैः
ब्राह्मणान्भोजयेत्पश्चाद्वस्त्रयुगमं गुरोरपि