पूर्वं तु सर्वशाखं स्यात्पञ्चशाखं तथापरम्
पलाशश्चैव विज्ञेयाः स्रुवे चैव तथा स्रुचि
विप्राणां चैतदाख्यातं ह्यन्येषामङ्गुलोनकम्
दृष्टिदोषविनाशार्थं पात्राणां प्रोक्षणं स्मृतम्
तस्मिन्पूर्णीकृते विप्र यज्ञसंपूर्णता भवेत्
पुष्कलानि तु चत्वारि पूर्णपात्रं विदुर्बुधाः
दत्ते तृप्तोभवेद्वह्निः शापं दद्याञ्च दारुणम्
प्राजापत्यं मुखं प्रोक्त कटिर्व्याहृतिभिः स्मृता
तथा स्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा
द्विशीर्षकं च षण्नेत्रं पिङ्गलं सप्तजिह्वकम्
स्रुक्स्त्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे
मेषारूढं चतुःशृङ्गं बालादित्यसमप्रभम्
ज्ञात्वैवमग्निदेहं तु होमकर्मसमाचरेत्
जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्महा भवेत्
सर्वकामसमृद्ध्यर्थं तिलाधिक्यं हविर्मतम्
अभिचारे सूकरी स्यान्मृगी हंसी शुभात्मके
मध्यमानामिकाङ्गुष्टैर्मृगी सुद्रा प्रकीर्तिता
दधिमध्वाज्यसंयुक्त ऋत्विग्भिर्जुहुयात्तिलैः
कुशास्त्वनामिकासक्ताः कार्याः स्युः पुण्यकर्मणि
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा
स्वमेव गाहतेत्यर्थं जलं मुण्डांश्च पश्यति
अन्त्यजैर्गर्द्दभैरुष्टैः सहैकत्रावतिष्टते
व्रजन्नपि तथात्मानं मन्यते ऽनुगतं परैः विमना विफलारंभः संसीदत्यनिमित्ततः
आचार्यत्वं श्रोत्रियश्च न शिष्यो ऽध्ययनं तथा
गौरसर्ष पकल्केन स्वस्ति वाच्या द्विजैः शुभाः
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाशु निक्षिपेत्
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं ततः
तेन त्वामभिषिञ्चामि पावमान्याः पुंनतु ते
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः
ललाटे कर्णयोरक्ष्णोरापस्तुदन्तु सर्वदा