कारणं दैवमेवात्र मन्ये सोपाधिका जनाः
मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने
प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु
कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव
सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम्
त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम्
नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले
स एव विष्णुःसत्त्वस्थो यतः परिहिते स्थितः
स एव जगतामीशो नररुपधरो हरिः
सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि
वर्तते यत्र मार्ताण्डः कथं तत्रतमो भवेत्
चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः
प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम्
परं पदं प्रयान्त्येव महद्भिरवलोकिताः
यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम्
चकार तस्य शुश्रूषां सपत्न्या सह नारद्
चक्राते भक्तिभावेन शुश्रूषआं प्रतिवासररम्
तस्याः पापमतिर्जाता सपत्न्याः संपदं प्रति
न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया
चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा
सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा
न तदातिसुखं किं वा नराणां पुण्यकर्मणाम्
तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम्
कलामात्रो ऽपि शीताशुः शंभुना स्वीकृतो यथा
इहामुत्र च विग्नेन्द्र सन्तः पूज्यतमास्ततः
गर्भं प्रात्पो गरो जीर्णो मासत्रयमहो ऽद्भुतम्
जातकर्म चचकारासौ तन्नाम सगरेति च
चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः
समर्थं सगरं दृष्ट्वा किञ्चिदुद्भिन्नशैशवम्
सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने