वन्ध्येव यौवनवती न तस्य साफल्यवति भवति
ज्ञात्वा वेदाङ्गमाद्यं तु ब्रह्मभूयाय कल्पते
यस्य विज्ञानमात्रेण स्यात्कर्मकुशलो नरः
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः
नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च
धर्मार्थकाममोक्षाणां सिद्ध्यै प्रोक्तं सविस्तरम्
निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः
अभिचारविधानेन निर्दिष्टानि स्वयंभुवा
तथान्तरिक्षोत्पातानां शान्तयो ह्युदिताः पृथक्
विशेषः पृथगेतेषां स्थितः शङ्खान्तरेषु च
वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया शृणु
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गल्यकाविमौ
सो ऽथ शब्दं प्रंयुजीत तदानन्त्यार्थमिष्यते
न्यूनाधिका निष्फलाय कर्मणो ऽभिमतस्य च
तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनम्
न्यूनाधिका न कर्त्तव्या इत्येव परिभाषितम्
गोमयेनोपलेप्येयं तदर्थमिति नारद
यज्ञार्थं गोमयं तस्या नाहरेदिति भाषितम्
तषां प्रहरणार्थाय मतं प्रोद्धरणं द्विज
अस्थिकण्टकसिद्ध्यर्थं ब्रह्मणा परिभाषितम्
तेनाद्भिरुक्षणं प्रोक्तं मुनिभिर्विधि कोविदैः
शुभदे मृण्मये पात्रे प्रोक्ष्याद्भिस्तं निधायपयेत्
वेद्यां निधापितस्तस्मात्समिद्गर्भो हुताशनः
तेभ्यः संरक्षणार्थाय ब्रह्माणं तद्दिशि न्यसेत्
यजमानः पूर्वतः स्युर्द्विजाः सर्वे ऽपि नारद
कर्तोदासीन चित्तस्तत्कर्म नश्येदिति स्थितिः
ऋत्विजां नियमो नास्ति यथालाभं समर्चयेत्
आज्यस्थाली त्र्यङ्गुलाथ चरुस्थाली षडङ्गुला
स्रुवं षडङ्गुल प्रोक्तं स्रुचं सार्द्धत्रयाङ्गुलम्
प्रोक्षिण्या उत्तरे भागे प्रणीतापात्रमष्टभिः