स्वरव्यण्डजनमाधुर्यं लुप्यते नात्र संशयः
कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम् न तस्य परिमोक्षो ऽस्ति पापाहेरिव किल्बिषात्
सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति न तकालो न लंबोष्टो न च सर्वानुनासिकः
गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति
स तु वर्णान्प्रयुञ्जीत देतोष्ठं यस्य शोभनम्
अलसाश्च सरोगाश्च येषां च विसृतं मनः
शनैरध्वसु वर्तेत योजनान्न परं व्रजेत्
अगच्छन्वैनतेयो ऽपि पदमेकं न गच्छति
बधिरस्येव जल्पस्य विदग्धा वामलोचना
अपि रूपसहस्रेषु संदेहेष्वेव वर्तते
राजते न सभामध्येजारगर्भेव कामिनी
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु
न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम्
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम्
नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति
समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत्
राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति
न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः
एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति
अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते
वन्ध्येव यौवनवती न तस्य साफल्यवति भवति
ज्ञात्वा वेदाङ्गमाद्यं तु ब्रह्मभूयाय कल्पते
यस्य विज्ञानमात्रेण स्यात्कर्मकुशलो नरः
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः
नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च
धर्मार्थकाममोक्षाणां सिद्ध्यै प्रोक्तं सविस्तरम्
निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः
अभिचारविधानेन निर्दिष्टानि स्वयंभुवा
तथान्तरिक्षोत्पातानां शान्तयो ह्युदिताः पृथक्
विशेषः पृथगेतेषां स्थितः शङ्खान्तरेषु च