स्वरान्तं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि
न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः
ऋचः स्वच्छन्दवृत्तास्तु पादास्त्वक्षरमानतः
प्रत्ययेत सहारेफमिमीते स्वरभक्तया
विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः
गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम्
निरृतिपञ्चमा ह्यत्र ऋकारा नात्र संशयः
इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता
स्वरोदा व्यञ्जनोदा च विहिताक्षरचिन्तकैः
शषसेषु विवृतां तु हकारे संवृतां विदुः
इकारं चाप्युकारं ग्रस्तदोषं तथैव च
अथ सान्तिक च नङ्मसानुस्वारं घुटतं च
यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला
तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु
विवृत्तिर् यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः
अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम्
मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञाः
सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते
स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत्
अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम्
सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः
जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिन्तयेत्
यावद्वासंतिकी रात्रिर्मध्यमा पर्युपस्थिता
वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम्
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः
वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा
अग्निमेधाजनन्येषा स्वरवर्णकरी तथा
पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत्
सप्तमन्त्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत्