ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते
येतीक्षरादिकरणं पदान्तस्येति तं विदुः
विवृतयश्चतस्रो वै विज्ञेया इति मे मतम्
ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे
चतसृणां विवृतीना मन्तरं मात्रिकं भवेत्
अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम्
पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम्
अकारं रक्तमित्याहुस्तकारेण तु रज्यते
अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया
रेफो रङ्गश्च लोपश्च सानुस्वरो ऽपि वा क्वचित्
मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम्
एवं रङ्गः प्रयोक्तव्यो नारदैतन्मतं मम
चतुर्णां पदजातीनां पदान्ता दश कीर्तिताः
व्यञ्जना न तु वर्तन्ते यत्र तिष्टति स स्वरः
मणिवद्व्यञ्जनं विद्यात्सूत्र वञ्च स्वरं विदुः
दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः
विसर्गस्तत्र मन्तव्यरतालव्यश्चात्र जायते
व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता
विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत्
स्वरान्तं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि
न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः
ऋचः स्वच्छन्दवृत्तास्तु पादास्त्वक्षरमानतः
प्रत्ययेत सहारेफमिमीते स्वरभक्तया
विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः
गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम्
निरृतिपञ्चमा ह्यत्र ऋकारा नात्र संशयः
इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता
स्वरोदा व्यञ्जनोदा च विहिताक्षरचिन्तकैः