इकारं यत्र पश्येयुरिकारेणैव संयुतम्
स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता
तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते
तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः
उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम्
चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः
इकारान्ते पदे पूर्व उकारे परतः स्थिते
इकारान्ते पदे चैवोकारद्वयं परे पदे
त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि
यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित्
चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु
अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि
वर्गान्त्यान् शषसैः सार्द्धमन्तस्थैर्वापि संयुतान्
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम्
अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम्
संयोगो यत्र दृश्येत र्व्यञ्जनं विरते पदे
संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा
संयोगात्तु विजानीयात्परं संयोगनायकम्
अनुस्वारः पदान्तश्च क्रमजं प्रत्यये स्वके
पादादौ चापादादौ संयोगावग्रहेषु च
पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम्
अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः
यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम्
प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः
शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः
विश्वानरोनकारश्च शेषास्तुस्वरिता नराः
अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते
निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे