उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः
उदात्ते निषादगान्धारावनुदात्तें ऋषभधैवतो
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः
जात्यः क्षैप्रो ऽभिनिहित स्तैरव्यञ्जन एव च
स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम्
सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत्
इउवर्णो यदोदात्तावापद्येते पवौ क्वचित्
एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः
उदात्तपूर्वे यत्किञ्चिच्छन्दसि स्वरितं भवेत्
अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम्
इकारं यत्र पश्येयुरिकारेणैव संयुतम्
स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता
तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते
तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः
उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम्
चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः
इकारान्ते पदे पूर्व उकारे परतः स्थिते
इकारान्ते पदे चैवोकारद्वयं परे पदे
त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि
यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित्
चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु
अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि
वर्गान्त्यान् शषसैः सार्द्धमन्तस्थैर्वापि संयुतान्
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम्
अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम्
संयोगो यत्र दृश्येत र्व्यञ्जनं विरते पदे
संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा
संयोगात्तु विजानीयात्परं संयोगनायकम्