क्रुष्टेन देवा जीवन्ति प्रथमेन तु मानुषाः
अन्धजाः पितरश्चैव चतुर्थस्वरजीविनः
अतिस्वरेण नीचेन जगत्स्थावरजङ्गमाः
दीप्तायताकरुणानां मृदुमध्यमयोस्तथा
दीप्ता मन्द्रे द्वितीय च प्रचतुर्थे तथैव च
श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः
आयतात्वं भवेन्नीचे मृदुता तु विपर्यये
द्वितीये विरता या तु क्रुष्टश्च परतो भवेत्
अत्रैव विरता या तु चतुर्थेन प्रवर्तते
नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चान्तरे
द्विविधा गतिः पदान्तस्थितसंधिः सहोष्मभिः
स्वरान्तराविरतानि ह्रस्वदीर्घघुटानि च
दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः
उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा
अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम्
य एवोदात्त इत्युक्तः स एव स्वरितात्परः
वर्णस्वरो ऽतीतस्वरः स्वरितो द्विविधः स्मृतः
स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात्
सप्तस्वरान्प्रयुञ्जीत दक्षिणं श्रवणं प्रति
उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा
उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः
उदात्ते निषादगान्धारावनुदात्तें ऋषभधैवतो
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः
जात्यः क्षैप्रो ऽभिनिहित स्तैरव्यञ्जन एव च
स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम्
सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत्
इउवर्णो यदोदात्तावापद्येते पवौ क्वचित्
एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः
उदात्तपूर्वे यत्किञ्चिच्छन्दसि स्वरितं भवेत्
अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम्