अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान्
निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना
सर्वांश्चाभिभवत्येष यदादित्यो ऽस्य दैवतम्
दारवी गात्रवीणा च द्वे वीणे गानजातिषु
गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामङ्गाः
हस्तौ तु संयतौ धार्यौं जानुभ्यामुपरिस्थितौ
प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम्
प्रसार्य चाङ्गुलीः सर्वा रोपयेत्स्वरमण्डलम्
विरला नाङ्गुलीः कुर्यान्मूले चैतां न संस्पृशेत्
मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित्
त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत्
पर्वान्तरं सामसु च ऋक्षु कुर्यात्तिलान्तरम्
न चात्र कंपयेत्किञ्चिदङ्गस्यावयवं बुधः
अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत्
कूर्मो ऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत्
सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च
नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत्
यथा सुचरतां मार्गो मीनानां नोपलभ्यते
यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथानलः
स्वरात्स्वरस्य संक्रामंस्वरसंधिमनुल्बणम्
अनागतमतिक्रान्तं विच्छिन्नं विषमाहतम्
स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्
गृहीतग्रन्थ एवं तु ग्रन्थोञ्चारणशैक्षकान्
क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु
कण्ठस्थानं चतुर्थस्य मन्द्रस्य रसनोच्यते
अङ्गुष्टस्योत्तमे व्रुष्टो ह्यङ्गुष्टं प्रथमः स्वरः
अनामिकायां षङ्गस्तु कनिष्टायां तु धैवतः
अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः