नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते
वाति गन्धवहः पुण्यो गान्धारस्तेन हेतुना
नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समर्श्नुते
पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते
शेषान्पञ्च स्वरांस्त्वन्ये पञ्चस्थानोत्थितान्विदुः
अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते
पञ्चमस्तु स्वरो गीतस्त्वयैवेति निधारय
आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः
गावः प्रणीते तुष्यन्ति गान्धारस्तेन हेतुना
सोमस्तु पञ्चमस्यापि दैवतं ब्रह्मराद्रस्मृतम्
अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान्
निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना
सर्वांश्चाभिभवत्येष यदादित्यो ऽस्य दैवतम्
दारवी गात्रवीणा च द्वे वीणे गानजातिषु
गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामङ्गाः
हस्तौ तु संयतौ धार्यौं जानुभ्यामुपरिस्थितौ
प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम्
प्रसार्य चाङ्गुलीः सर्वा रोपयेत्स्वरमण्डलम्
विरला नाङ्गुलीः कुर्यान्मूले चैतां न संस्पृशेत्
मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित्
त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत्
पर्वान्तरं सामसु च ऋक्षु कुर्यात्तिलान्तरम्
न चात्र कंपयेत्किञ्चिदङ्गस्यावयवं बुधः
अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत्
कूर्मो ऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत्
सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च
नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत्
यथा सुचरतां मार्गो मीनानां नोपलभ्यते
यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथानलः