स्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः
कनकाभस्तु गान्धारो मध्यमः कुन्दसन्निभः
निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः
ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ
शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः
निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात्
ऋषभो निषादसहितस्तं पञ्चममीदृशं विद्यात्
धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते
धैवतः कंपितो यत्र स षङ्गयाम ईरितः
तं तु साधारितं विद्यात्पञ्चमस्थं तु कैशिकम्
यस्मा त्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः
कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम्
वेति वाद्यस्य संज्ञेयं गन्धर्वस्य प्ररोचनम्
यो द्वितीयः स गान्धारस्तृतीयस्त्वृषभः स्मृतः
षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः
अजाविके तु गान्धारं क्रैञ्चो वदति मध्यमम्
अश्वस्तु धैवतं वक्ति निषआदं वक्ति कुञ्जरः
गान्धारस्त्वनुनासिक्य उरसो मध्यमः स्वरः
ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम्
षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः
नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते
वाति गन्धवहः पुण्यो गान्धारस्तेन हेतुना
नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समर्श्नुते
पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते
शेषान्पञ्च स्वरांस्त्वन्ये पञ्चस्थानोत्थितान्विदुः
अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते
पञ्चमस्तु स्वरो गीतस्त्वयैवेति निधारय
आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः
गावः प्रणीते तुष्यन्ति गान्धारस्तेन हेतुना
सोमस्तु पञ्चमस्यापि दैवतं ब्रह्मराद्रस्मृतम्