नास्ति निन्दासमं पापं नास्ति मोहसमासवः
नास्ति रागसमः पाशो नास्ति सङ्गसमं विषम्
जीर्णाङ्गोमनसस्तापाद् वृद्धभावादभूदसौ
स बाहुर्व्याधिना ग्रस्ते ममार मुनिसत्तम
चिरं विलप्य बहुधा सहगन्तुं मनो दधे
समारोप्य तन्पूरुढं स्वयं समुपचक्रमे
एतद्विज्ञातवान्सर्वं परमेण समाधिना
गतासूया महात्नानः पश्यन्तिज्ञान चक्षुषा
संप्रात्पस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता
प्रोवाच धर्ममूलानि वाक्यानि मुनिसत्तमः
तवोदरे चक्रवर्ती शनुहन्ता हि तिष्टति
रजस्वला राजसुतेनारोहति चिन्ताशुभो
दाम्भिनोनिन्दकस्यापि भ्रूणघ्रस्य न निष्कृतिः
विश्वासघातकस्यापि निष्कृतिर्नास्ति सुव्रते
यदेतद्दुःखमुत्पन्नं तत्सर्वं शान्तिमेष्यति
विललापातिदुःखार्ता समुह्यधवपत्कुजौ
मारोदीराज ननये श्रियमग्र्ये गमिष्यसि
तस्माच्छोकं परित्यज्य कुरु कालोचिता क्रि पाम्
दुर्वृत्ते वा सुवृत्ते वा मृत्योःसर्वत्रतुल्यता
नगरे वा तथामन्ये दैन्यमत्रातिरिच्यते
कारणं दैवमेवात्र मन्ये सोपाधिका जनाः
मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने
प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु
कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव
सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम्
त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम्
नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले
स एव विष्णुःसत्त्वस्थो यतः परिहिते स्थितः
स एव जगतामीशो नररुपधरो हरिः
सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि