सामसु त्र्यन्तरं विद्यादेतावत्स्वरतो ऽन्तरम्
अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः
स वाग्वज्रो यजमानं हिर्नास्ति यथेन्द्रशत्रुः स्वरतो ऽपराधात्
सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम्
न च शक्तो ऽसि व्यक्तस्तु तथा प्रावचना विधिः
ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः
उच्चमध्यमसंघातः स्वरो भवति पार्थिवः
द्वितीयाद्यास्तु मद्रान्तास्तैत्तिरीयाश्चतुःस्वरान्
मन्द्रः क्रुष्टो मुनीश्वर एतान्कुर्वन्ति सामगाः
तथा शातपथावेतौ स्वरौ वाजसनेयिनाम्
इत्येतञ्चरितं सर्वं स्वराणां सार्ववैदिकम्
अल्पग्रन्थं प्रभूतार्थं सामवेदाङ्गमुत्तमम्
पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम्
सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः
षङ्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा
षङ्जमध्यमगान्धारास्ररयो ग्रामाः प्रकीर्तिताः
स्वर्गाभ्राञ्चैव गान्धारो ग्रामस्थानानि त्रीणि हि
विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश
नदी विशाला सुमुखी चित्रा चित्रवती मुखा
आप्यायिनी विश्वभृता चन्द्रा हेमा कपर्दिनी
षङ्जे तूत्तरमन्द्रा स्यादृषभे चाभिरूहता
मध्यमे खलु सौवीरा हृषिका पञ्चमे स्वरे
निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः
पितॄणां मूर्च्छानाः सप्त तथा यक्षा न संशयः
षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः
देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पञ्चमः
गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा
काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम्
व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश
स्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः