अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया
तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा
निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम्
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम्
गुरुस्नेहादृभुर्नामनिदाघं समुपागतः
परमार्थसारभूतं यत्तदद्वैतमशेषतः
निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत्
तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः
भव सर्वगतं ज्ञानमात्मानमवनीपते
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक् पृथक्
सो ऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः
स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप
ब्राह्मणक्षत्रियविशां श्रोर्तृआणां चापि मुक्तिदम्
ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै
असंतुष्ट इव प्राह भ्रातरं तं सनन्दनम्
तथापि नात्मा प्रीयेत शृण्वन्हरिकथां मुहुः
सिद्धिं सुमहतीं प्राप्तो निर्विण्णो ऽवान्तरं बहिः
न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः
समाख्याहि महाभाग मो७शास्त्रार्थविद्भवान्
यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने
ऋषयश्चक्रिरे धर्मं यो ऽनूचानः स नो महान्
तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम
यज्ज्ञात्वा साङ्गवेदानामभिज्ञो जायते नरः
छन्दःशास्त्रं षडेतानि वादाङ्गानि विदुर्बुधाः
वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे
सो ऽनूचानः प्रभवति नान्यथा ग्रन्थकोटिभिः
त्वंमस्मासु महाविज्ञः सांगेष्वेतेषु मानद
संक्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम्
वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते
कृतान्ते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः