क्षुधितस्य च भुक्ते ऽन्ने तृप्तिर्ब्रह्मन्विजायते
वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया
पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः
सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः
मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव
मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम्
आदिमध्यावसानेषु किमन्नं रुचिकारणम्
पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः
गुडः फलानीति तथा पार्थिवाः परमाणवः
तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत्
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज
इहागतो ऽहं दास्यामि परमार्थं सुबोधितम्
वासुदेवाभिधेयस्य स्वरुपं परात्मनः
पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः
निदाघज्ञानदानाय तदेव नगरं गुरुः
महाबलपरीवारे पुरं विशति पार्थिवे
क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम्
उवाच कस्मादेकान्तं स्थीयत भवता द्विज
प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम
अधिरुढो नरेन्द्रो ऽयं परितो यस्तथेतरः
भवता निर्विशेषेण पृथग्वेदोपलक्षितौ
ज्ञातुमिच्छाम्यहं को ऽत्र गजः को वा नराधिपः
वाह्यवाहकसंबन्धं को न जानाति वै द्विज
अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते
श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि