तस्यात्मपरदेहेषु सतो ऽप्येकमयं हि तत्
वेणुरङ्घ्रविभेदेन भेदः षङ्जादिसंज्ञितः
एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः
शृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत्
ऋभुर्नामाबवत्पुत्रो ब्रह्मणः परमेष्टिनः
तस्य शिष्यो निदाघो ऽभूत्पुलस्त्यतनयः पुरा
अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना
देविकायास्तटे वीर नागरं नाम वै पुरम्
रम्योपवनपर्यन्तं स तस्मिन्पार्थवोत्तम
दिव्ये वर्षसहस्रे तु समतीते ऽस्य तत्पुरम्
स तस्य वैश्वदेवन्ति द्वारालोकनगोचरः
प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम्
भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे
सक्तुयावकव्रीहीनामपूपानां च मे गृहे
कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे
गृहे शालिनि मद्गेहे यत्किञ्चिदति शोभनम्
इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत्
न भुक्तवन्तमिच्छातो मिष्टमन्नं महामुनिम्
अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव
क्व निवासी भवान्विप्र क्व वा गन्तुं समुद्यतः
क्षुधितस्य च भुक्ते ऽन्ने तृप्तिर्ब्रह्मन्विजायते
वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया
पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः
सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः
मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव
मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम्
आदिमध्यावसानेषु किमन्नं रुचिकारणम्