प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम्
श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः
भवता दर्शितं विप्र तत्परं प्रकृतेर्महत्
शरीरमन्यदस्मत्तो येनेयं शिबिका धृता
प्रवर्तन्ते गुणाश्चैते किं ममेति त्वयोदितम्
मनो विह्वलतामेति परमार्थार्थतां गतम्
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किन्त्वत्र संशये
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति
विष्णोरंशो जगन्मोहनाशाय समुपागतः
प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते
तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान्
श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप
कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत्
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः
श्रेयांस्येवमनेकानि शतशो ऽथ सहस्रशः
धर्मो ऽयं त्यजते किं तु परमार्थो धनं यदि
मुत्रश्चेत्परमार्थाख्यः सो ऽप्यन्यस्य नरेश्वर
एवं न परमार्थो ऽस्ति जगत्यत्र चराचरे
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः
अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते
तदेवापलदं कर्म परमार्थो मतो मम
ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम्
परमार्थात्मनोर्योगः परमार्थ इतीष्यते
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः
परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः