सोढव्यः सुमहान्भारः कतमो नृप ते मया
भवतो मे ऽखिलस्यास्य समत्वेनोपबृंहितः
सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन्
कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया
उपयोगनिमित्तं च सर्वत्रागमनक्रिया
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति
धर्माधर्मौं यतस्तस्मात्कारणं पृच्छ्यते कुतः
उपभोगनिमित्तं च देहाद्देहान्तरागमः
वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते
आत्मन्येव न दोषाय शब्दो ऽहमिति यो द्विजा
अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः
तथापि वागहमेद्वक्तुमित्थं न युज्यते
ततो ऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम्
न देहो ऽहमयं चान्ये वक्तुमेवमपीष्यते
तददा हि को भवान्को ऽहमित्येतद्विफलं वचः
अयं च भवतो लोको न सदेतन्नृपोच्यते
क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप
न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम्
अन्विष्यतां नृपश्रेष्ठानन्ददाशिबिका त्वया
क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु
शरीराकृतिभेदास्तु भूपैते कर्मयोनयः
तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम्
परिणामादिसंभूतं तद्वस्तु नृप तञ्च किम्
पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम्
किमु पादादिकं त्वेतन्नैव किं ते महीपते
को ऽहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव
पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम्