मिथ्या तदप्यत्र भवान् शृणोतु वचनं मम
ऊरु जङ्घाद्वयावस्थौ तदाधारं तथोदरम्
स्कन्धाश्रितयें शिबिका ममाधारो ऽत्र किङ्कृतः
तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा
गुणप्रवाहपतितो भूतवर्गो ऽपि यात्ययम्
अविद्यासंचितं कर्मतश्चाशेषेषु जन्तुषु
प्रवृद्ध्यपचयौ न स्त एकस्याखिलजन्तुषु
तदापि बालिशो ऽसि त्वं कया युक्त्या त्वयेरितम्
शिबिकेयं यदा स्कन्धे तदा भारः समस्त्वया
शैलद्रुमगृहोत्थो ऽपि पृथिवीसंभवो ऽपि च
सोढव्यः सुमहान्भारः कतमो नृप ते मया
भवतो मे ऽखिलस्यास्य समत्वेनोपबृंहितः
सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन्
कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया
उपयोगनिमित्तं च सर्वत्रागमनक्रिया
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति
धर्माधर्मौं यतस्तस्मात्कारणं पृच्छ्यते कुतः
उपभोगनिमित्तं च देहाद्देहान्तरागमः
वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते
आत्मन्येव न दोषाय शब्दो ऽहमिति यो द्विजा
अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः
तथापि वागहमेद्वक्तुमित्थं न युज्यते
ततो ऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम्
न देहो ऽहमयं चान्ये वक्तुमेवमपीष्यते
तददा हि को भवान्को ऽहमित्येतद्विफलं वचः
अयं च भवतो लोको न सदेतन्नृपोच्यते
क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप
न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम्