उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः
गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम्
ययौ जडगतिस्तत्र युगमात्रावलोकनम्
विलोक्य नृपतिः सो ऽथ विषमं शिबिकागतम्
पुनस्तथैव शिबिकां विलोक्य विषमां हसन्
शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम्
किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे
न श्रान्तो ऽस्मि न चायासो वोढान्यो ऽस्ति महीपते
श्रमश्च भारो द्वहने भवत्येव हि देहिनाम्
बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम्
मिथ्या तदप्यत्र भवान् शृणोतु वचनं मम
ऊरु जङ्घाद्वयावस्थौ तदाधारं तथोदरम्
स्कन्धाश्रितयें शिबिका ममाधारो ऽत्र किङ्कृतः
तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा
गुणप्रवाहपतितो भूतवर्गो ऽपि यात्ययम्
अविद्यासंचितं कर्मतश्चाशेषेषु जन्तुषु
प्रवृद्ध्यपचयौ न स्त एकस्याखिलजन्तुषु
तदापि बालिशो ऽसि त्वं कया युक्त्या त्वयेरितम्
शिबिकेयं यदा स्कन्धे तदा भारः समस्त्वया
शैलद्रुमगृहोत्थो ऽपि पृथिवीसंभवो ऽपि च
सोढव्यः सुमहान्भारः कतमो नृप ते मया
भवतो मे ऽखिलस्यास्य समत्वेनोपबृंहितः
सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन्
कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया
उपयोगनिमित्तं च सर्वत्रागमनक्रिया
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति
धर्माधर्मौं यतस्तस्मात्कारणं पृच्छ्यते कुतः
उपभोगनिमित्तं च देहाद्देहान्तरागमः
वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते