ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम्
तमुह्यमानं वेगेन वीचिमालापरिप्लुतम्
गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रणेन च
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः
चकारानुदिनं चासौ मृगपोतस्य वै नृपः
चचाराश्रमपर्यन्तं तृणानि गहनेषु सः
प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम्
तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः
किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे
कालेन गच्छता सो ऽथ कालं चक्रे महीपतिः
मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि
जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम
शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम्
तत्र चोत्सृष्टदेहो ऽसौ जज्ञे जातिस्मरो द्विजः
सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित्
आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम्
उक्तो ऽपि बहुशः किञ्चिज्जण्ड वाक्यमभाषत
अपद्धस्तवपुः सो ऽपि मलिनांबरधृङ् मुने
संमानेन परां हानिं योगर्द्धेः कुरुते यतः
तस्माञ्चरेत वै योगी सतां धर्ममदूषयन्
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः
भुङ्क्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान्
पितर्युपरते सो ऽथ भ्रातृभ्रातृव्यबान्धवैः
सरूक्षपीनावयवो जडकारी च कर्मणि
तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम्
स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज
श्रेयः किमत्र संसारे दुःखप्राये नृणामिति