प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत्
आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव
तवोपदेशात्सकलो नष्टश्चित्तमलो मम
नरेद्रं गदितुं शक्यमपि विज्ञेयवेदभिः
परमार्थस्त्व संलाप्यो वचसां गोचरो न यः
यद्विमुक्तिपरो योगः प्रोक्तः केशिद्वजाव्ययः
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः
विशालामगमत्कृष्णे समावेशितमानसः
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम्
बुभुजे विषयान्कर्म चक्रे चानभिसंधितम्
अवाप सिद्धिमत्यन्तत्रितापक्षपणीं मुने
तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते
तथापि मे मनो भ्रान्तं न स्थितिं लभतेंऽजसा
सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद
उवाच हर्षसंयुक्तः स्मरन्भघरतचेष्टितम्
यं श्रुत्वा त्वन्मनो भ्रान्तमास्थानं लभते भूशम्
आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते
पालयामास धर्मेण पितृबद्रञ्जयन् प्रजाः
सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः
मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम्
तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने
नित्यं प्रातः समाप्लुत्य निर्मले ऽभलि नारद
अथाश्रमे समागत्य वासुदेवं जगत्पतिम्
फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः
सचैकदा महाभागः स्नात्वा प्रातः समाहितः
अथाजगाम तत्तीरं जलं पातुं पिपासिता
ततः समभवत्तत्र पीतप्राये जले तया