चेष्टा तस्याप्रमेयस्य व्यापिन्यविहितात्मिका
तस्य ह्यात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम्
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्
कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा
त्रिभावभावनातीतो मुक्तये योगिनां नृप
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः
एषा वै धारणा ज्ञेया यञ्चितं तत्र धार्यते
तच्छ्रूयता मनाधारे धारणा नोपपद्यते
सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम्
कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम्
प्रलंबाष्टभुजं विष्णुमथ वापि चतुर्भुजम्
चिन्तयेद्बूह्यभूतं तं पीतनिर्मलवाससम्
शार्ङ्गशङ्खगदाखड्गप्रकाशवलयाञ्चितम्
तावद्यावद् दृढीभूता तत्रैव नृप धारणा
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा
चिन्तये द्भगवद्रूपं प्रशान्तं साक्षसूत्रकम्
किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत्
कुर्यात्ततो ऽवयविनि प्राणिधानपरो भवेत्
तद्ध्यानं प्रथमैरङ्गैः षङ्भिर्निष्पाद्यते नृप
मनसा ध्याननिष्पाद्यं समाधिः सो ऽभिधीयते
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत्
आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव
तवोपदेशात्सकलो नष्टश्चित्तमलो मम
नरेद्रं गदितुं शक्यमपि विज्ञेयवेदभिः
परमार्थस्त्व संलाप्यो वचसां गोचरो न यः
यद्विमुक्तिपरो योगः प्रोक्तः केशिद्वजाव्ययः
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः