आलंबनमनन्तस्य योगिनो ऽभ्यसतः स्मृतम्
कुर्य्याञ्चित्तानुकारीणि प्रत्याहारपरायणः
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः
वशीकृतैस्ततः कुर्यात्स्थिरं चेतः शुभाश्रये
यदाधारमशेषं तु हॄन्ति दोषसमुद्भवम्
रूपं मूर्तममूर्तं च परं चापरमेव च
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका
उभयात्मिका तथैवान्या त्रिविधा भावभावना
कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः
अधिकारबोधयुक्तेषु विद्यते भावभावना
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृप
वचसामात्मसंतोद्यं तज्ज्ञानं ब्रह्मसंज्ञितम्
विश्वस्वरूपं वैरूप्यलक्षणं परमात्मनः
ततः स्थूलं हरे रूपं चिन्त्यं यञ्चक्षुगोचरम्
मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहाः
मनुष्याः पशवः शैलासमुद्राः सरितो द्रुमाः
प्रधानादिविशेषान्ताश्चेतनाञ्चेतनात्मकम्
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम्
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम्
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते
असारभूते संसारे प्रोक्ता तत्र महामते
तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ संज्ञिता
अप्राणवत्सु खल्वल्पा स्थावरेषु ततो ऽधिका
पतत्र्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवो ऽधिकाः
तेभ्यो ऽपि नागगन्धर्वयक्षाद्या देवता नृप
हिरण्यगर्भो ऽपि ततः पुंसः शक्त्युपलक्षितः
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा
अमृर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः
नहि स्वरूपरूपं वै रूपमन्यद्धरेर्महत्
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया