कर्त्ता महाक्रतूनां च मत्तः पूज्यो ऽस्ति को ऽपरः
वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः
अहॄङ्कारपरस्यैवं जातासूया परेष्वपि
एषु स्थितेषु तु नरो विनाषं यत्यसंशयम्
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्
स्वदेहनाशिनी विग्र सर्वसंपद्विनाशिनी
तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत
परुषोक्तिरतानां च सुखं नेह परत्र च
प्रियावा तनया वापि बान्धवा अप्यरातयः
स स्वसंपद्विनाशाय कुठारो नात्र संशयः
सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सूरं कुधीः
हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज
हैहयास्ताललजङ्घाश्च बलिनो ऽरातयो ऽभवन्
स एव विमुखो यस्य सौभाग्यं तस्य हीयते
यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद
श्लाध्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये
जायते नात्र संदेहो जन्तुद्वेषो विशेषतः
तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसतम्
धनं धान्यं मही संपनद्विश्यति ततो ध्रुवम्
आपदः संभवन्त्येवेत्यहॄङ्कारं त्यजेत्ततः
असूयाविसृष्टमनसस्तस्य राज्ञः परैः सह
हैहयैस्तालजङ्घैश्च रिपुभिः स पराजितः
अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः
सरोगतविहङ्गास्ते लीनाश्चित्रमिदं महत्
विशन्तस्त्वरया वासमित्यूचुस्ते विहङ्गमाः
पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रितः
दुर्गुणान्विगणय्यास्यधिग्धिगित्यब्रुवन्प्रजाः
सर्वसंपत्समायुक्तो ऽप्यगुणीनिन्दितो जनैः
संतुष्टिं परमां याता दवथौ विगते यथा
निहत्य कर्म च यशो लोके द्वजवरोत्तम