कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत्
इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च
सर्वदेहोपभोगाय कुरुते कर्म मानवः
मृण्मयं हि यथा गेहं लिप्यते वै मृदं भसा
पञ्चभोगात्मकैर्भोगैः पञ्चभोगात्मकं वपुः
अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन्
प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा
मोहश्रमे शमं याते स्वच्छान्तःकरणः पुमान्
निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः
जलस्य नाग्निना संगः स्थालीसंगात्तथापि हि
तथात्मा प्रकृतेः संगादहंमानादिदूषितः
तदेतत्कथितं बीजमविद्याया मया तव
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते
खाण्डिक्यो ऽमृतवच्छ्रत्वा पुनराह तमीरयन्
विज्ञातयो गशास्त्रार्थस्त्वमस्यां निमिसंततौ
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः
बन्धस्य विषयासंगि मुक्तेर्निर्विषयं तथा
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम्
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते
यस्य योगः स वै योगी मुमुक्षुरमिधीयते
विनिष्यन्नसमाधिस्तु परब्रह्मोपलब्धिमान्
जन्मान्तरैरभ्यसनान्मुक्तिः पूर्वस्य जायते
प्राप्नोति योगी योगाग्निदग्धकर्मचयो ऽचिरात्
सेवेत योगी निष्कामो यिगितां स्वमनो नयन्
कुर्व्वीत ब्रह्मणि तथा परिस्मिन्प्रवणं मनः
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः
प्राणायामः स विज्ञेयः सबीजो ऽबीज एव च
कुरुतः सद्विधानेन तृतीयः संयमात्तयोः