ततः प्राह यथावृत्तं होमधेनुवधं मुने
स चाचष्ट यथान्यायं मुने केशिध्वजाय तत्
विदितार्थः स तेनैवमनुज्ञातो महात्मना
क्रमेण विधिवद्यागं नीत्वा सो ऽवभृथाप्लुतः
पूजिता ऋत्विजः सर्वे सदस्या मानिता मया
यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम्
इत्थं तु चिन्तयन्नेव संमार स महीपतिः
स जगाम ततो भूयो रथमारुह्य पार्थिवः
खाण्डिक्यो ऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः
अहं तु नापकाराय प्राप्तः खाण्डिक्य मा क्रुधः
निष्पादितो मया यागः सम्यक् त्वदुपदेशतः
इत्युक्तो मन्त्रयामास स भूयो मन्त्रिभिः सह
तमूचुर्मन्त्रिणो गज्यमशेषं याच्यतामयम्
प्राहस्य तानाह नृपः स खाण्डिक्यो महापतिः
एतमेतद्भंवतो ऽत्र स्वार्थ साधनमन्त्रिणः
इत्युक्त्वा समुपेत्यैंनं स तु केशिध्वजं नृपम्
बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत्
यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः
न प्रार्थितं त्वया कस्मान्मम राज्यमकण्टकम्
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम्
यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया
जन्मोपर्भागलिप्सार्थमियं गज्यस्पृहा मम
न याच्ञा क्षत्रबन्धूनां धर्मायैतत्सतां मतम्
राज्यं गृध्नन्ति विद्वांसो ममत्वाकृष्टचेतसः
अहं च विद्यया मृत्युं तर्तुकामः करोमि वै
तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम्
अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः
पञ्चभूतात्मके देहे देही मोहतमोवृत्तः
आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते