इयाडज सो ऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः
एकदा वर्तमानस्य यागे योगविदां वर
ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः
ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति
शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति
न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि
स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने
प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः
तमायान्तं समालोक्य खाञ्जडिक्यो रिपुमात्मनः
कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि
मृगानां वद पृष्टेषु मूढ कृष्णाजिनं न किम्
स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे
खाण्डिक्य संशयं प्रष्टुं भवन्तमहमागतः
ततः स मन्त्रिभिः सार्द्धमेकान्ते सपुरोहितः
तमूर्मन्त्रिणो वध्यो रिपुरेष वशङ्गतः
खाण्डिक्यश्चाह तान्सर्वानेव मेव न संशयः
परलोकजयस्तस्य पृथिवी सकला मम
परलोकजयो ऽनन्तः स्वल्पकालो महीजयः
ततस्तमभ्युपेत्याह खाण्डिक्यो जनको रिपुम्
ततः प्राह यथावृत्तं होमधेनुवधं मुने
स चाचष्ट यथान्यायं मुने केशिध्वजाय तत्
विदितार्थः स तेनैवमनुज्ञातो महात्मना
क्रमेण विधिवद्यागं नीत्वा सो ऽवभृथाप्लुतः
पूजिता ऋत्विजः सर्वे सदस्या मानिता मया
यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम्
इत्थं तु चिन्तयन्नेव संमार स महीपतिः
स जगाम ततो भूयो रथमारुह्य पार्थिवः
खाण्डिक्यो ऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः
अहं तु नापकाराय प्राप्तः खाण्डिक्य मा क्रुधः