सर्वभूतेष्वशेषेषु वकारार्थस्ततो ऽव्ययः
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः
शब्दो ऽयं नोपचारेण चान्यत्र ह्युपचारतः
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः
भूतेषु वसनादेव वासुदेवस्ततः स्मृतः
नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः
धाता विधाता जगतां वासुदेवस्ततः प्रभुः
अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद्भुवनान्तरालम्
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ
परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे
सर्वेश्वरः सर्वनिसर्गवेत्ता समस्कशक्तिः परमेश्वराख्यः
तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते
न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते
ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम्
जनकाय पुरा योगं तथाहं कथयामि ते
कथं तयोश्च संवादो योगसंबन्धवानभूत्
कृतध्वजो ऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः
पुत्रो ऽमितव्वजस्यापि खाण्डिक्यजनकाभिधः पुरोधसा मन्त्रिभिश्च समवेतो ऽल्पसाधनः
इयाडज सो ऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः
एकदा वर्तमानस्य यागे योगविदां वर
ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः
ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति
शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति
न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि
स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने
प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः
तमायान्तं समालोक्य खाञ्जडिक्यो रिपुमात्मनः