सगरः को मुनिश्रेष्ठ तन्म्रमाख्यातुमर्हसि
गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम्
बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः
स्थापिताः स्वस्वधर्मेषु तेन बाहुर्विशांपतिः
अतर्प्पयद्भूमिदेवान् गोभूस्वर्णाशुकादिभिः
मेने कृतार्थमात्मानमन्यातपनिवारणम्
भूषिता भूषणौर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने
अकृष्टपच्या पृथिवी फलपुष्पसमन्विता
आधर्मनिरतापाये प्रजा धर्मेण रक्षिताः
अहॄङ्कारो महाञ्जज्ञे सासूयो लोपहेतुकः
कर्त्ता महाक्रतूनां च मत्तः पूज्यो ऽस्ति को ऽपरः
वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः
अहॄङ्कारपरस्यैवं जातासूया परेष्वपि
एषु स्थितेषु तु नरो विनाषं यत्यसंशयम्
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्
स्वदेहनाशिनी विग्र सर्वसंपद्विनाशिनी
तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत
परुषोक्तिरतानां च सुखं नेह परत्र च
प्रियावा तनया वापि बान्धवा अप्यरातयः
स स्वसंपद्विनाशाय कुठारो नात्र संशयः
सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सूरं कुधीः
हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज
हैहयास्ताललजङ्घाश्च बलिनो ऽरातयो ऽभवन्
स एव विमुखो यस्य सौभाग्यं तस्य हीयते
यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद
श्लाध्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये
जायते नात्र संदेहो जन्तुद्वेषो विशेषतः
तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसतम्
धनं धान्यं मही संपनद्विश्यति ततो ध्रुवम्
आपदः संभवन्त्येवेत्यहॄङ्कारं त्यजेत्ततः