निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः
न खलु मम हि दह्यते ऽत्र किञ्चित्स्वयमिदमाह किल स्म भूमिपालः
उपद्रवाननुभघवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः
पुनः पप्रच्छ तं प्रीत्या सनन्दनमुदारधीः
प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे
गर्बे जन्मजराद्येषुस्थानेषु प्रभविष्यतः
भेषजं भगवत्प्राप्तिरैका चात्यन्तिकी मता
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने
शब्दब्रह्मागममयं परं ब्रह्मविवेकजम्
तदेतच्छ्रूयतामत्र सुबोधं गदतो मम
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
परमा त्वक्षरप्राप्तिरृग्वेदादिमया परा
अनिर्देश्यमरूपं च पाणिपादादिसंयुतम्
व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यन्ति सूरयः
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम्
वाचको भगवच्छब्दस्तस्योद्दिष्टो ऽक्षयात्मनः
ज्ञायते येन तज्ज्ञानं परमन्यत्रयीमयम्
पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः
भगवन्भगवच्छब्दः सर्वकारणकारणे तेनागमपिता स्रष्टा गकारो ऽयं तथा मुने
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा
सर्वभूतेष्वशेषेषु वकारार्थस्ततो ऽव्ययः
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः
शब्दो ऽयं नोपचारेण चान्यत्र ह्युपचारतः
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः
भूतेषु वसनादेव वासुदेवस्ततः स्मृतः
नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः
धाता विधाता जगतां वासुदेवस्ततः प्रभुः
अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद्भुवनान्तरालम्
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ