शृणुयात्तच्च मोक्षाय भाष्यमाणं भविष्यति
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः
सुखत्यागा तपो योगं सर्वत्यागे समापना
विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत्
बसषष्टानि वक्ष्यामि पञ्च कर्मेद्रियाणि तु
प्रजनान दयोमेढ्रो विसर्गो पायुरिन्द्रियम्
एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः
येनायं त्रिविधो भावः पर्यायात्समुपस्थितः
त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः
न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम्
यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः
क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्टति यात्यमानः
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च
मत्स्यं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी निपतत्सशक्तः
तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिङ्गः
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः
न खलु मम हि दह्यते ऽत्र किञ्चित्स्वयमिदमाह किल स्म भूमिपालः
उपद्रवाननुभघवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः
पुनः पप्रच्छ तं प्रीत्या सनन्दनमुदारधीः
प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे
गर्बे जन्मजराद्येषुस्थानेषु प्रभविष्यतः
भेषजं भगवत्प्राप्तिरैका चात्यन्तिकी मता
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने
शब्दब्रह्मागममयं परं ब्रह्मविवेकजम्
तदेतच्छ्रूयतामत्र सुबोधं गदतो मम